|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.74. अध्यायः 074
Mahabharata - Sabha Parva - Chapter Topics
युधिष्ठिरसभायां दुर्योधने निर्जलदेशे जलभ्रमेण परिधानमुत्कर्षति सति तथा स जलदेशे स्थलभ्रान्त्या भवनधानगमनेन जले पतति च सति भीमादिभिरुपहासः॥ 1॥ चिन्तातान्तं दुर्योधनं प्रति शकुनिना चिन्ताहेतुप्रश्ने दुर्योधनेन तत्कथन पूर्वकं धृतराष्ट्रे स्वदुः शनिवेदनाय शकुनिम्प्रति चोदनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
वसन्दुर्योधनस्तस्यां सभायां पुरुषर्षभ।
शनैर्ददर्श तां सर्वां सभां शकुनिना सह॥ 2-74-1(14231)
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः।
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये॥ 2-74-2(14232)
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः।
स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया॥ 2-74-3(14233)
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः।
दुर्मना विमुखश्चैव परिचक्राम तां सभाम्॥ 2-74-4(14234)
ततः स्थले निपतितो दुर्मना व्रीडितो नृपः।
निः श्वसन्विमुखश्चापि परिचक्राम तां सभाम्॥ 2-74-5(14235)
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्।
वापीं मत्वा स्थलमिव सवासाः प्रापतञ्जले॥ 2-74-6(14236)
जले निपतितं दृष्ट्वा भीमसेनो महाबलः।
जहास जहसुश्चैव किङ्कराश्च सुयोधनम्॥ 2-74-7(14237)
वासांसि च शुभान्यस्मै प्रददू राजशासनात्।
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः॥ 2-74-8(14238)
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा।
नामर्षयत्ततस्तेषामवहासममर्षणः॥ 2-74-9(14239)
आकारं रक्षमाणस्तु न स तान्समुदैक्षत।
पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम्॥ 2-74-10(14240)
आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः।
द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः।
प्रविशन्नाहतो मूर्ध्नि व्याघूर्णित इव स्थितः॥ 2-74-11(14241)
तादृशं च परं द्वारं स्फाटिकोरुकवाटकम्।
विघट्टयन्कराभ्यां तु निष्क्रम्याग्रे पपात हा॥ 2-74-12(14242)
द्वारं तु वितताकारं समापेदे पुनश्च सः।
तद्वृत्तं चेति मन्वानो द्वारस्थानादुपारमत्॥ 2-74-13(14243)
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशाम्पते।
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः॥ 2-74-14(14244)
अपहृष्टेन मनसा राजसूये महाक्रतौ।
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम्॥ 2-74-15(14245)
पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः।
दुर्योधनस्य नृपतेः पापा मतिरजायत॥ 2-74-16(14246)
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्।
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह॥ 2-74-17(14247)
महिमानं परं चापि पाण्डवानां महात्मनाम्।
दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत॥ 2-74-18(14248)
स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत्।
श्रियं च तामनुपमां धर्मराजस्य धीमतः॥ 2-74-19(14249)
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा।
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः॥ 2-74-20(14250)
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत।
दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि॥ 2-74-21(14251)
दुर्योधन उवाच॥ 2-74-22x(1513)
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्।
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः॥ 2-74-22(14252)
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल।
यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः॥ 2-74-23(14253)
अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम्।
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम्॥ 2-74-24(14254)
पश्य सात्वतमुख्येन शिशुपालो निपातितः।
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः॥ 2-74-25(14255)
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना।
क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति॥ 2-74-26(14256)
वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम्।
सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम्॥ 2-74-27(14257)
तथाहि रत्नन्यादाय विविधानि नृपा नृपम्।
उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः॥ 2-74-28(14258)
श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे।
अमर्षवशमापन्नो दह्यामि न तथोचितः॥ 2-74-29(14259)
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्।
अपो वापि प्रवेक्ष्यामिन हि शक्ष्यामि जीवितुम्॥ 2-74-30(14260)
को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान्।
सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च॥ 2-74-31(14261)
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि।
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्॥ 2-74-32(14262)
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्।
यज्ञं च तादृशं दृष्ट्वा मादृशः को न संञ्ज्वरेत्॥ 2-74-33(14263)
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्।
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये॥ 2-74-34(14264)
दैवमेव परं मन्ये पौरुषं च निरर्थकम्।
दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा॥ 2-74-35(14265)
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल।
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम्॥ 2-74-36(14266)
तेन दैवं परं मन्ये पौरुषं च निरर्थकम्।
धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः। 2-74-38c`कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः'॥ 2-74-37(14267)
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्।
रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना॥ 2-74-38(14268)
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय॥ ॥ 2-74-39(14269)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुःसप्ततितमोऽध्यायः॥ 74॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|